कठिल्लकः

सुधाव्याख्या

कटति । ‘कटे वर्षावरणयोः' (भ्वा० प० से०) । बाहुलकादिल्लः ॥ कठति। ‘कठ शोके' (भ्वा० प० से०) । अस्मादिल्लः, इत्यन्ये । स्वार्थे कन् (५.३.७५) । ‘कठिल्लकस्तु पर्णासे वर्षाभूकारवेल्लयोः' इति विश्वमेदिन्यौ ॥