कारवेल्लः

सुधाव्याख्या

अथेति । ‘कारो वधे निश्चये च वलौ यत्ने यतावपि । (तुषारशैलेऽपि पुमान् स्त्रियां दूत्यां प्रसेवके । सुकर्णकारिकायां च बन्धनागारबन्धयोः (इति मेदिनी) । कारं वेल्लति । 'वेल्ल चलने' (भ्वा० प० से०) । ‘कर्मण्यण्' (३.२.१) ॥