पलाशः

सुधाव्याख्या

पलमश्नाति । ‘अश भोजने' (क्र्या० प० से०) । ‘कर्मण्यण्' (३.२.१) । पले मांसे आशा यस्य वा । ‘पलाशः किंशुकः शटी । हरिद्वर्णो राक्षसश्च पलाशं छदने मतम्' इति हैमः ॥