रजनी

सुधाव्याख्या

रज्यतेऽनया । ‘रञ्ज रागे' (भ्वा० उ० अ०) । ‘करणा-' (३.३.११७) इति ल्युट् । ‘-त्यजरज-' (३.२.१४२) इति निपातनात् क्वचिदकित्यपि नलोपः । ‘रजनी नीलिनीरात्रिहरिद्राजतुकासु च' (इति मेदिनी) ॥


प्रक्रिया

धातुः - रन्जँ रागे


रञ्ज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रञ्ज् + ल्युट् - करणाधिकरणयोश्च 3.3.117
रञ्ज् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
रञ्ज् + अन - युवोरनाकौ 7.1.1
रजन - निपातनात् । संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च 3.2.142
रजन + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
रजन + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
रजन् + ई - यस्येति च 6.4.148
रजनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
रजनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रजनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68