मत्स्याक्षी

सुधाव्याख्या

मत्स्याक्षीव पुष्पमस्याः । मत्स्यशब्द: स्वावयवे गौणः । ‘बहुव्रीहौ-' (५.४.११३) इति षच् । ङीष् (४.१.४१) ॥


प्रक्रिया

मत्स्य + सु + अक्षिन् + सु - अनेकमन्यपदार्थे 2.2.24
मत्स्य + अक्षिन् - सुपो धातुप्रातिपदिकयोः 2.4.71
मत्स्याक्षिन् - अकः सवर्णे दीर्घः 6.1.101
मत्स्याक्षिन् + षच् - बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्‌ षच् 5.4.113
मत्स्याक्षिन् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, षः प्रत्ययस्य 1.3.6
मत्स्याक्ष् + अ - नस्तद्धिते 6.4.144
मत्स्याक्ष + ङीप् - षिद्गौरादिभ्यश्च 4.1.41
मत्स्याक्ष + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
मत्स्याक्ष् + ई - यस्येति च 6.4.148
मत्स्याक्षी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मत्स्याक्षी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मत्स्याक्षी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68