शाकम्

सुधाव्याख्या

शाकेति । शक्यते भोक्तुम् । ‘शक्लृ शक्तौ' (स्वा० प० अ०) । घञ् (३.३.१९) । यद्वा श्यति । ‘शो तनूकरणे (दि० प० से०) । बाहुलकात् कः ॥ आदिना फलनाड्यग्रमूलादिपरिग्रहः । ‘मूलपत्त्रकरीराग्रफलकाण्डाधि रूढकम् । त्वक् पुष्पं कवकं चैव शाकं दशविधं स्मृतम् । अधिरूढकं तालबीजाङ्कुरास्थिमज्जादि ।