मिसी

सुधाव्याख्या

मांसीत्वादामिषी इति स्वाम्युक्तो विग्रहोऽयुक्तः । तथा पाठस्य क्वचिददर्शनात् । मस्यति । ‘मसी परिणामे' (दि० प० से०) । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) । ‘कृदिकारात्’ (ग० ४.१.४५) इति वा ङीष् । पृषोदरादिः (६.३.१०९) ॥