रसा

सुधाव्याख्या

रस्यते । ‘रस आस्वादने’ (चु० उ० से०) अदन्तः । घञ् (३.३.१९) । ‘रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे । बोले रागे गृहे धातौ तिक्तादौ पारदेऽपि च' इति हैमः ॥