भस्मगन्धिनी

सुधाव्याख्या

भस्मनो गन्धः । भस्मगन्धोऽस्त्यस्याः । ‘अत:-' (५.२.११५) इतीनिः ॥


प्रक्रिया

भस्मन् + ङस् + गन्ध + सु - षष्ठी 2.2.8
भस्मन् + गन्ध - सुपो धातुप्रातिपदिकयोः 2.4.71
भस्मगन्ध - नलोपः प्रातिपदिकान्तस्य 8.2.7
भस्मगन्ध + सु + इनि - अत इनिठनौ 5.2.115
भस्मगन्ध + इनि - सुपो धातुप्रातिपदिकयोः 2.4.71
भस्मगन्ध + इन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भस्मगन्ध् + इन् - यस्येति च 6.4.148
भस्मगन्धिन् + ङीप् - ऋन्नेभ्यो ङीप्‌ 4.1.5
भस्मगन्धिन् + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
भस्मगन्धिनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
भस्मगन्धिनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भस्मगन्धिनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68