कपिला

सुधाव्याख्या

कपिलो वर्णोऽस्त्यस्याः । अर्शआद्यच् (५.२.१२७) । ‘कपिला रेणुकायां च शिंशपागोविशेषयोः । पुण्डरीककरिण्यां स्त्री वर्णभेदे त्रिलिङ्गकम् । नानले वासुदेवे च मुनिभेदे च कुक्कुरे' (इति मेदिनी) ॥