रेणुका

सुधाव्याख्या

रेणुरस्या अस्ति । व्रीह्यादित्वात् (५.२.११६) ठन् । ‘इसुसुक्तान्तात्कः' (७.३.५१) । रेणुरेव । ‘संज्ञायाम्' (५.३.७५) इति कन् वा । मुकुटस्तु-रेणुं करोति । ड: (वा० ३.२.१०१) । टाप् (४.१.४) रेणुका । पृषोदरादिः (६.३.१०९) – इत्याह । तत्र ‘पृषोदरादिः' इत्युक्तिश्चिन्त्या । रेणुकापि हरेणौ च जामदग्न्यस्य मातरि’ (इति मेदिनी) ॥