ताम्बूलवल्ली

सुधाव्याख्या

तेति । ताम्यति । ‘तमु ग्लानौ' (दि० प० से०) । क्विप् (३.२.१७८) । ‘अनुनासिकस्य-' (६.४.१५) इति दीर्घः । वोलति । ‘वुल् मज्जने’ (चु० प० से०) । चुरादीनां णिज्वा । ‘इगुपध-' (३.१.१३५) इति कः । ताम् चासौ वुली च । पृषोदरादिः (६.३.१०९) । ताम्बूलाख्या वल्ली शाकपार्थिवादिः (वा० २.१.६९) ॥


प्रक्रिया

धातुः - तमुँ काङ्क्षायाम् , बुलँ निमज्जने


तमुँ काङ्क्षायाम्
तम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तम् + क्विप् - अन्येभ्योऽपि दृश्यते 3.2.178
तम् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9, वेरपृक्तस्य 6.1.67
ताम् - अनुनासिकस्य क्विझलोः क्ङिति 6.4.15
बुलँ निमज्जने
वुल् + क - इगुपधज्ञाप्रीकिरः कः 3.1.135
वुल् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वुल + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
वुल + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वुल् + ई - यस्येति च 6.4.148
ताम् + सु + वुली + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
ताम् + वुल - सुपो धातुप्रातिपदिकयोः 2.4.71
ताम्बूल - पृषोदरादीनि यथोपदिष्टम् 6.3.109
ताम्बूलाख्या वल्ली
ताम्बूल + सु + वल्ली + सु - शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् ।
ताम्बूल वल्ली - सुपो धातुप्रातिपदिकयोः 2.4.71
ताम्बूलवल्ली + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ताम्बूलवल्ली + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ताम्बूलवल्ली - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68