स्कन्दः

सुधाव्याख्या

स्कन्द्यते । ‘स्कन्दिर गतिशोषणयो: (भ्वा० प० अ०) । कर्मणि घञ् (३.३.१९) । पृषोदरादिः (६.३.१०९) । यत्तु मुकुटेन–उणादौ स्कन्दिर् धातौ ‘कन्देरच्स्वाङ्गे-' (उ० ४.२०७) इत्यच् प्रत्ययो धश्चान्तादेश: इत्युक्तम् । तन्न । तत्रासुनो विधानात् । अचोऽविधानात् । ‘स्कन्धः स्यान्नृपतावंसे सम्परायसमूहयोः । काये तरुप्रकाण्डे च भ्रात्रादौ छन्दसो भिदि' इति धान्तेषु मेदिनी । द्वे मूलमारभ्य शाखावधिभागस्य ।