प्रकाण्डः

सुधाव्याख्या

अस्त्रीति । प्रकाण्ड्यते । ‘कड भेदने’ चुरादिः । ‘एरच्’ (३.३.५६) । पृषोदरादिः (६.३.१०९) । काम्यते । ‘कमु कान्तौ' (भ्वा० आ० से०) । णिङ् (३.१.३०) । ‘वरण्डादयश्च इति डो वा । ‘प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरो: इति विश्व: ।


प्रक्रिया

धातुः - कडिँ भेदने


कड् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क + नुम् + ड् - इदितो नुम् धातोः 7.1.58
क + न् + ड् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कंड् - नश्चापदान्तस्य झलि 8.3.24
कण्ड् - अनुस्वारस्य ययि परसवर्णः 8.4.58
कण्ड् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
कण्ड् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
काण्ड् + इ - पृषोदरादीनि यथोपदिष्टम् 6.3.109
कण्ड् + अच् - णेरनिटि 6.4.51
कण्ड् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्र + काण्ड् + अ - पृषोदरादीनि यथोपदिष्टम् 6.3.109
प्रकाण्ड + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रकाण्ड + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रकाण्ड + रु - ससजुषो रुः 8.2.66
प्रकाण्ड + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रकाण्डः - खरवसानयोर्विसर्जनीयः 8.3.15