उच्छ्रायः

सुधाव्याख्या

‘आरोहो दैर्घ्य उच्छ्रये । आरोहणे गजारोहे स्त्रीकट्यां मानभिद्यपि' इति हैमः ॥ आदिना गिरिदेवालयादिग्रहः ॥ उच्छ्रयणम् । ‘श्रिञ् सेवायाम् (भ्वा० उ० से०) । ‘उदिश्रयति-' (३.३.४९) इति घञ् ।