मुखम्

सुधाव्याख्या

मुखमिति । खन्यते । ‘खनु अवदारणे’ (भ्वा० उ० से०) । डित्खनेर्मुट् चोदात्तः' (उ० ५.२०) इत्यच् आदेर्मुडागमः । मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः’ इति हैमः ।


प्रक्रिया

धातुः - खनुँ अवदारणे


खन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मुट् + खन् + अच् – डित् खनेर्मुट् स चोदात्तः (५.२०) । उणादिसूत्रम् ।
मु + खन् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मु + ख् + अ टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
मुख + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मुख + अम् - अतोऽम् 7.1.24
मुखम् - अमि पूर्वः 6.1.107