अलिन्दः

सुधाव्याख्या

अल्यते भूष्यते । ‘अल भूषणादौ ’ (भ्वा० प० से०) । बाहुलकात्किन्दच् ॥ प्रज्ञाद्यणि आलिन्दः’ अपि । 'गृहेकदेशे आलिन्दः प्रघाणः प्रघणस्तथा’ इत्यमरमाला । अलिन्दस्त्वल्पपिण्डिका इति सुभूति: ॥