उपकारिका

सुधाव्याख्या

उपकरोति । ण्वुल् (३.१.१३३) । ('उपकारिकोपकर्त्र्यां पिष्टभेदे नृपालये') ॥ ‘उपकार्युपकारिका' इति द्विरूपकोशदर्शनादुपकार्यपि । तत्र उपकारयति पचाद्यचि (३.१.१३४) गौरादि (४.१.४१) ङीष् । यत्तु उप अधिकं करोतीति विगृह्य ‘कर्मण्यण्' (३.२.१) इत्युक्तं मुकुटेन । तन्न । निपातानामसत्वार्थकत्वेन कारकत्वायोगात् ॥