वर्धकिः

सुधाव्याख्या

- वर्धते । ‘वर्ध छेदने’ (चु० प० से०) । अच् (३.१.१३४) । वर्धं कषति । ‘कष हिंसायाम” (भ्वा० प० से०) । बाहुलकाड्डिः ॥


प्रक्रिया

धातुः -


वर्धँ छेदने
वर्ध् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वर्ध् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
वर्ध् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वर्ध
कषँ हिंसायाम्
वर्ध + अम् + कष् + डि - बाहुलकात्
वर्ध + कष् + ङि - सुपो धातुप्रातिपदिकयोः 2.4.71
वर्ध + कष् + इ - चुटू 1.3.7, तस्य लोपः 1.3.9
वर्ध + क् + इ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
कर्धकि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कर्धकि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कर्धकि + रु - ससजुषो रुः 8.2.66
कर्धकि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कर्धकिः - खरवसानयोर्विसर्जनीयः 8.3.15