अष्टापदम्

सुधाव्याख्या

- अष्टेति । पङ्कौ पङ्कौ अष्टौ पदान्यस्य । ‘अष्टनः संज्ञायाम्’ (६.३.१२५ ) इति दीर्घः । अष्टापदमस्त्रियाम् । ‘अष्टापदोऽस्त्री कनके शारीणां फलकेऽपि च । (अष्टापदी चन्द्रमल्ल्यां शरभे मर्कटे पुमान्)’ इति मेदिनी ॥


प्रक्रिया

धातुः -


अष्ट + पद जस् - अनेकमन्यपदार्थे 2.2.24
अष्टापदम् - अष्टनः संज्ञायाम्’ (६.३.१२५ ) ।