कादम्बरी

सुधाव्याख्या

- कुत्सितमम्बरम् । ‘कुगति-' (२.२.१८) इति समासः । ‘कोः कत्तत्पुरुषेऽचि' (६.३.१०१) । कदम्बरं नीलाम्बरमस्यास्ति । अर्शआद्यच् (५.२.१२७) । तस्येयम् । तस्येदम् (४.३.१२०) इत्यण् । कदम्बे जातो रसः । ‘तत्र जातः' (४.३.५३) इत्यण् । कादम्बं राति वा । कः (३.२.३) । ‘गौरादिः' (४.१.४१) । ‘कादम्बरस्तु दध्यग्रे मद्यभेदे नपुंसकम् । स्त्री वारुणीपरभृताभारतीसारिकासु च' (इति मेदिनी) ॥