प्रसन्ना

सुधाव्याख्या

- प्रसीदति स्म । ‘षद्लृ विशरणादौ’ (भ्वा० प० अ०) । ‘गत्यर्था-' (३.४.७२) इति क्तः । ‘रदाभ्याम्-' (८.२.४२) इति निष्ठानत्वम् । ‘प्रसन्ना स्त्री सुरायां स्यादच्छसन्तुष्टयोस्त्रिषु' (इति मेदिनी) ॥