परिसृता

सुधाव्याख्या

- भागुरिमते टापि ‘परिसृता' । यद्वा परितः सूयते स्म लोकैः । ‘सृ गतौ’ (भ्वा० प० अ०) । क्तः (३. २.१०२) । ‘परिस्रुता स्त्री वारुण्यां स्यन्ने स्यादभिधेयवत्’ (इति मेदिनी) ॥