सुरा

सुधाव्याख्या

- स्विति । सुष्ठ राति याम् । ‘रा दाने’ (अ० प० अ०) । सु अतीव रायन्त्यनया वा । ‘रै शब्दे' (भ्वा० प० से०) । ‘आतश्चोपसर्गे (३.३.१०६) इत्यङ् । ‘सुरा चषकमद्ययोः' ॥ पुंलिङ्गस्त्रिदिवेशे स्यात् (इति मेदिनी) ॥