काचः

सुधाव्याख्या

- स्रंसतेऽस्मात् । ‘स्रंसु अधःपतने’ (भ्वा० आ० से०) ‘स्रसेः शिः कुट् किच्च' (उ० ५.१६) इति यत्, धातोः शिरादेशो यतः कुट् ।—शक्नोति वोढुम् । अघ्न्यादिः (उ० ४.११२) इति मुकुटस्त्वेतत्सूत्रादर्शनमूलकः । कच्यतेऽत्र । ‘कच बन्धे' (भ्वा० आ० से०) । ‘हलश्च' (३.३.१२१) इति घञ् । ‘काचः शिक्ये मणौ नेत्ररोगभेदे मृदन्तरे' इति विश्वमेदिन्यौ ॥