क्षत्तः

सुधाव्याख्या

- क्षेति । अर्या च शूद्रश्च । तयोः सुतः । क्षदति, क्षद्यते, वा । ‘क्षद सम्भृतौ’ () । ‘-शंसिक्षदादिभ्यः-' (उ० २.९४) इति तृच् । ‘क्षत्ता शूद्रात्क्षत्त्रियाजे प्रतीहारे च सारथौ । भुजिष्यातनयेऽपि स्यान्नियुक्तवेधसोः पुमान्’ (इति मेदिनी) ॥ अर्या स्वामिनी । सा च क्षत्त्रिया योग्यत्वात् । तेन 'क्षत्त्रियायां च शूद्रजे' इत्यनेनाविरोधः ॥


प्रक्रिया

धातुः -


क्षदँ सम्भृतौ - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्षद् + तृच् – उणादिसूत्रम् । २.९४
क्षद् + तृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
क्षत्ता