माहिष्यः

सुधाव्याख्या

- मेति । अर्या च क्षत्त्रियश्च । तयोः सुतः । महिष्यां साधुः । ‘तत्र साधुः' (४.४.९८) इति यत् । स्वार्थेऽण् (२.४.३८) । यद्वा मह्यते, महति वा । ‘मह पूजायाम्’ (भ्वा० प० से०) । ‘अविमह्योष्टिषच्’ (उ० १.४५) । चतुर्वर्णादित्वात् (वा० ५.१. १२४) स्वार्थे ष्यञ् ॥