शुल्वम्

सुधाव्याख्या

- श्विति । शुल्व्यते, शुल्वयति वा । ‘शुल्व विसर्गे' (चु० प० से०) ण्यन्तः । ‘एरच् (३.३.५६) । अच् (३.१.१३४) वा ‘रज्जुः शुल्वा वराटो ना' इति रत्नकोषात्स्र्यपि । ‘शुल्वं ताम्रे यज्ञकर्मण्याचारे जलसन्निधौ' इति विश्वः (मेदिनी) । स्वामी तु—‘सुम्यं वटाकरः' इति पठति । सु पूजितं मीयते । ‘मीङ् गत्याम्' (दि० आ० अ०) । ‘एरच्’ (३.३.४६) । बाहुलकाद्यण् । सुमे पुष्पे साधु । ‘तत्र साधुः' (४.४.९८) इति यत् ॥