मृगव्यम्

सुधाव्याख्या

- मृगा व्यय्यन्तेऽत्र । ‘व्यय गतो' (भ्वा० उ० से०) । ‘अन्येभ्योऽपि-' (वा० ३.२.१०१) इति डः ॥


प्रक्रिया

धातुः -


व्ययँ गतौ - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मृग + व्यय् + ड – वा ३.२.१०१
मृग् + व्यय् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
मृगव्यम् - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।