मागधः

सुधाव्याख्या

- मेति । क्षत्रिया च विट् च । तयोः सुतः । मगध्यति । ‘मगध वेष्टने’ । कण्ड्वादिः अच् (३.१.१३४) । ‘यस्य हलः' (६.४.४९) इति यलोपः । प्रज्ञाद्यण् (५.४.३८) । ‘मागधो मगधोद्भूते शुक्लजीरकवन्दिनोः । वैश्यतः क्षत्त्रियापुत्रे मागधी स्यात्तु पिप्पली । यूथी भाषाविशेषश्च' इति हेमचन्द्रः ॥