अम्बष्ठः

सुधाव्याख्या

- अम्बेति । वैश्या च द्विजन्मा च । तयोः सुतः । अम्बे तिष्ठति । ‘ष्ठा' (भ्वा० प० अ० ) । ‘सुपि-' (३.२.४) इति कः । ‘अम्बाम्ब-' (८.३.९७) इति षत्वम् । ‘अम्बष्ठो देशभेदेऽपि विप्राद्वेश्यासुतेऽपि च । अम्बष्ठाप्यम्ललोण्यां स्यात्पाठायूथिकयोरपि' इति विश्वः (मेदिनी) ॥


प्रक्रिया