करणः

सुधाव्याख्या

- श्विति । शूद्रा च विट् च । तयोः सुतः । किरति, कीर्यते, वा । ‘कॄ’ (तु० प० से०) । ‘बहुलमन्यत्रापि’ (उ० २७८) इति युच् । ‘कृत्यल्युटः-' (३.३.११३) इति वा । ‘करणं हेतुकर्मणोः । वालवादौ हसे लेपे नृत्यगीतप्रभेदयोः । क्रियाभेदेन्द्रियक्षेत्रकायसंवेशनेषु च । कायस्थे साधने क्लीबं पुंसि शूद्राविशोः सुते' इति विश्वः ॥