कापथः

सुधाव्याख्या

‘ईषदर्थे च’ (६.३.१०५) इति कादेशः । कुमार्गोऽपीषन्मार्गो भवति । कुत्सितः पथः । ‘वाटः पथश्च मार्गश्च' इति त्रिकाण्डशेषाददन्तः पथशब्दः । पथशब्देन समासेन पुंस्त्वं निर्वाह्यम् । पथिन् शब्देन समासे ‘का पथ्यक्षयो:’ (६.३.२०४) इति कादेशे ‘पथः संख्या व्ययादेः’ (वा० २.४.३०) इति क्लीबत्वं भवति । ‘सत्पथस्तु सुपन्थाः स्याद् व्यध्वो विपथकापथौ’ इति रभसोऽप्येवम् । ('कापथः कुत्सितपथे उशीरे क्लीबमिष्यते') । कुत्सितार्थ-कुशब्दस्य पथशब्देन समासे कुपथः अपि ॥ पञ्च दुर्मार्गस्य ।