विपथः

सुधाव्याख्या

विरुद्धः पन्था: । ‘ऋक्पूर्' (५.४.७४) इत्यः इति मुकुट: । तन्न । (पथः संख्या व्ययादेः) (वा० २.४.३०) इति क्लीबता-प्रसङ्गात् । अतः ‘विरुद्धः पथः’ इति विग्रहीतव्यम् ॥