नाकुः

सुधाव्याख्या

न अकति । ‘अक कुटिलायां गतौ (भ्वा प० से०) । बाहुलकादुः । यद्वा नम्यते भूरनेन ॥ ‘णम प्रह्वत्वे शब्दे च' (भ्वा० प० अ०) । ‘फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च' (उ० १.१८) इत्युः, नाकिश्च । इकार उच्चारणार्थ: । (नाकुर्मुन्यन्तरे पृथ्वीधरवल्मीकयोः पुमान्’)