शर्करावत्

सुधाव्याख्या

अन्यतरस्याम् (५.२.९६) । ग्रहणान्मतुप् (५.२.९४) च ॥ देशे इति । (तत्र) आदौ भवौ । मध्यान्मः (४.३.८) इत्यत्र 'आदेश्च’ इति वचनान्म: ॥ आदिमौ शर्कराशर्करिलौ देशे एव नान्यत्र । 'शार्करः शर्करावान्' इतीमौ तु देशादेशयोः ।