दन्दशूकः

सुधाव्याख्या

गर्हितं दशति । ‘लुपसद-'(३.१.२४) इति यङ् । 'जपजभ-' (७.४.८४) इति नुकि अनुस्वारः (८.३.२४) । 'यजजप-( ३.२१६६ ) इत्यूकः । ‘दन्दशूकस्तु पुंलिङ्गो राक्षसे च सरीसृपे’


प्रक्रिया

धातुः - दन्शँ दशने


दन्श् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दन्श् + यङ् - लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् 3.1.24
दन्श् + य - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
दंश् + य - नश्चापदान्तस्य झलि 8.3.24
दंश् + दंश् + य - सन्यङोः 6.1.9
द + दंश् + य - पूर्वोऽभ्यासः 6.1.4, हलादिः शेषः 7.4.60
द + नुक् + दंश् + य - जपजभदहदशभञ्जपशां च 7.4.86
द + न् + दंश् + य - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
दं + दंश् + य नश्चापदान्तस्य झलि 8.3.24
दन् + दंश् + य - अनुस्वारस्य ययि परसवर्णः 8.4.58
दन् + दंश् - यङोऽचि च 2.4.74
दन्दश् - अनिदितां हल उपधायाः क्ङिति 6.4.24
दन्दश् + ऊक - यजजपदशां यङः 3.2.166
दन्दशूक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दन्दशूक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दन्दशूक + रु - ससजुषो रुः 8.2.66
दन्दशूक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दन्दशूकः - खरवसानयोर्विसर्जनीयः 8.3.15