लयः

सुधाव्याख्या

लय इति । गीतिवाद्यपादादिन्यासानां क्रियाकालयोः साम्यं लयः । लयनम् । ‘लीड् श्लेषणे' (दि० आ० अ०) । ‘एरच्' (३.३.५६) । यत्तु— लय गतौ’ ‘एरच्-' इति मुकुटेनोक्तम् । तन्न । लयधातोरिकारान्तत्वाभावात् । ’लयस्तूर्यत्रयीसाम्ये संश्लेषणविलासयोः' इति हैमः ।