तालः

सुधाव्याख्या

ताल इति । तलनम् । तल प्रतिष्ठाकरणयो’ (चु० प० से०) । घञ् (३.३.१८) तालः करतलेऽङ्गुष्ठमध्यमाभ्यां च सम्मिते । गीताकालक्रियामाने करास्फाले द्रुमान्तरे । वाद्यभाण्डे च कांस्यस्य त्सरौ ताली जटौषधौ । क्लीबं तु हरिताले स्यात्' इति विश्वमेदिन्यौ ॥ कालस्य क्रियया आवापनिष्क्रमादिकया मानं परिच्छेदनम् ।