तत्त्वम्

सुधाव्याख्या

एषु यथाक्रमं तत्वादित्रयम् । तननम् । तत् । सम्पदादित्वात् (वा० ३.३.१०८) क्विप् । तदस्यास्ति । 'वप्रकरणेऽन्यत्रापि (वा० ५.२.१०९) इति वः । ‘तसौ मत्वर्थे' (१.४.१९) इति भत्वान्न जश्त्वम् । ‘तत्त्वं परात्मनि । वाद्यभेदे स्वरूपे च । इति हैमः ।