द्रुतम्

सुधाव्याख्या

द्रवन्ति शीघ्रं गच्छन्त्यत्र । 'द्रु गतौ' (भ्वा० प० अ०) । उभयत्रापि ’क्तोऽधिकरणे च' (३.४.१७६) । इति क्तः । यत्तु–भावे क्तः (३.३.११४) इति मुकुटः । तन्न । अन्यपदार्थस्य नृत्यस्यालाभप्रसङ्गात् । 'द्रुतं त्रिषु । शीघ्रे विलीने विद्राणे' ।