घनम्

सुधाव्याख्या

‘कांस्यतालादिकं घनम् । कांस्येति । कांस्यमयस्तालः कांस्यतालः । आदिना घण्टादि घनं निबिडत्वा । हन्यते । 'हन हिंसागत्योः’ (अ० प० अ०) मूर्तौ घनः’ (३.३.७७) इत्यप् घनादेशश्च । ‘घनः सान्द्रे द्रढे दार्ढ्ये विस्तारे मुद्ररेऽम्बुदे । सङ्घे मुस्ते घनं मध्यनृत्तवाद्यप्रभेदयो:’ इति हैमः