आनद्धम्

सुधाव्याख्या

आनद्धमिति । आनह्यते स्म मुखे चर्मणा बध्यते स्म । ‘णह बन्धने (दि० उ० अ०) । क्तः (३.२.१०२) । नहो ध: (८.२.३४) । आदिपदात्पटहादि । आनद्धं मुरजादौ च क्लीबं स्यात्संदिते त्रिषु' ।