ततम्

सुधाव्याख्या

ततमिति । वीणादि यद्वाद्यं वादनीयम् । तत्ततम् । आदिना सैरन्ध्रीरावणहस्तकिंनरादि तन्यते तनिमृङ्भ्यां किच्च (उ० ३.८८) इति तन् । अथ ततं व्याप्ते विस्तृते च त्रिलिङ्गकम् । क्लीबं वीणादिवाद्ये स्यात्पुंलिङ्गस्तु सदागतौ ॥