विप्रलम्भः

सुधाव्याख्या

विप्रेति । विशेषेण प्रलम्भनम् । ’डुलभष् प्राप्तौ’ (भ्वा० आ० अ०) ।


प्रक्रिया

धातुः - डुलभँष् प्राप्तौ


लभ् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
वि + प्र + लभ् + घञ् - भावे 3.3.18
वि + प्र + ल + नुम् + भ् + घञ् - लभेश्च 7.1.64
वि + प्र + ल + न् + भ् + घञ् - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वि + प्र + लंभ् + घञ् - नश्चापदान्तस्य झलि 8.3.24
वि + प्र + लम्भ् + घञ् - अनुस्वारस्य ययि परसवर्णः 8.4.58
वि + प्र + लम्भ् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
विप्रलम्भ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विप्रलम्भ + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विप्रलम्भ + रु - ससजुषो रुः 8.2.66
विप्रलम्भ + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विप्रलम्भः - खरवसानयोर्विसर्जनीयः 8.3.15