घर्मः

सुधाव्याख्या

घर्म इति । जिघर्त्यङ्गमनेन । ‘घृ क्षरणदीप्त्योः’ (जु० प० अ०) । ‘घर्म-’ (उ० १.१४९) इति निपातितः । यत्तु ‘घरति' इति विग्रहप्रदर्शनं मुकुटेन कृतम् । तत्तु 'घृ क्षरण इति धातूपन्यसनेन विरुध्यते । घरत्यङ्गमनेन वा । ‘घृ सेके’ (भ्वा० प० अ०) । ‘घर्मः स्यादातपे ग्रीष्मेऽप्युष्णस्वेदाम्बुनोरपि')