शीलम्

सुधाव्याख्या

शुचाविति । ‘शुचौ’ इति भाषितपुंस्कत्वात्पुंवद्भावः (७.१.७४) । ‘शील समाधाने’ (भ्वा० प० से०) । ण्यन्तात् (३.१.२६) घञ् (३.३.१८) । यद्वा ‘शीङो धुक्लुक्वलञ्वालन:’ (उ० ८.३८) इति लक् । अर्धर्चादिः (२.४.३१) । शीलं स्वभावे सद्वृते' इति विश्वः । चरित्रमात्रेऽपि । शीलम् । ‘निष्ठा च शीलं चारित्रं चरित्रं चरितं तथा' इति रत्नकोषात् ।