विप्रतीसारः

सुधाव्याख्या

वितिप्रसरणम् । ‘सृ गतौ (भ्वा०प० अ०) । घञ् (३.३.१८) । 'उपसर्गस्य घञि’ (६.३.१२२) इति वा दीर्घः । ‘विप्रतीसार उद्दिष्टः कौकृत्येऽनुशये रुषि’ इति मेदिनी । (पक्षे ह्रस्वतृतीयोऽपि । ‘विप्रतिसारस्त्वनुशये रुषि । कौकृत्ये । इति हैम:) ।