तिरस्क्रिया

सुधाव्याख्या

तिरस्करणम् । कृञः श च (३.३.१००) इति शः । ‘तिरसोऽन्यतरस्याम् (८.३.४२) इति सत्त्वम् ॥


प्रक्रिया

धातुः - डुकृञ् करणे


कृ - हलन्त्यम् 1.3.3, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
कृ + श - कृञः श च 3.3.100
कृ + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कृ + यक् + अ - सार्वधातुके यक् 3.1.67
कृ + य + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कृ + य - अतो गुणे 6.1.97
क् + रिङ् + य - रिङ् शयग्लिङ्क्षु 7.4.28
क् + रि + य - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
क्रिय + टाप् - अजाद्यतष्टाप्‌ 4.1.4
क्रिय + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
क्रिया - अकः सवर्णे दीर्घः 6.1.101
तिरः + क्रिया + सु - उपपदमतिङ् 2.2.19
तिरः + क्रिया - सुपो धातुप्रातिपदिकयोः 2.4.71
तिरस् + क्रिया - तिरसोऽन्यतरस्याम् 8.3.42
तिरस्क्रिया + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तिरस्क्रिया + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तिरस्क्रिया - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68