मानः

सुधाव्याख्या

मान इति । (मत्समो नास्ति,इति) मननम् । ‘मनु अवबोधने (त० आ० से०) । घञ् (३.३.१८) । ‘मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतौ ग्रहे’ इति हैमः ॥